|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.260. अध्यायः 260
Mahabharata - Adi Parva - Chapter Topics
मन्दपालस्य पुत्राश्वपूर्वकं सर्वैः सहान्यत्र गमनम्॥ 1 ॥
देवगणैः सहागतस्येन्द्रस्य कृष्णार्जुनवरदानपूर्वकं स्वलोकगमनम्॥ 2 ॥
अग्नेस्थानगमनानन्तरं कृष्णार्जुनमयानां नदीकूल उपवेशनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
मन्दपाल उवाच। 1-260-0x(1371)(11233)
युष्माकमपवर्गार्थं ती ज्वलनो मया।
अग्निना च तथेत्येतिज्ञातं महात्मना॥ 1-260-1(11234)
अग्नेर्वचनमाज्ञाय धर्मज्ञतां च वः।
भवतां च परं वीर्यं नाहमिहागतः॥ 1-260-2(11235)
न सन्तापो हि वर्त्थः पुत्रका हृदि मां प्रति।
ऋषीन्वेद हुताशो ब्रह्म तद्विदितं च वः॥ 1-260-3(11236)
वैशम्पायन उवाच। 1-260-4x(1372)
एवमाश्वासितान्पुत्रान्भार्यामादाय स द्विजः।
मन्दपालस्ततो देशादन्यं देशं जगाम ह॥ 1-260-4(11237)
भगवानापि तिग्मांशुः समिद्धः खाण्डवं ततः।
ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम्॥ 1-260-5(11238)
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः।
जगाम दर्शयामास चार्जुनम्॥ 1-260-6(11239)
ततोऽञन्तरिक्षाद्भगवानवतीर्य पुरन्दरः।
मरुद्गणैर्वृतः पार्थं केशवं चेदमब्रवीत्॥ 1-260-7(11240)
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्।
वरं वृणीतं तुष्टोऽस्मि दुर्लभं पुरुषेष्विह॥ 1-260-8(11241)
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः।
प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः॥ 1-260-9(11242)
यदा प्रसन्नो भगवान्महादेवो भविष्यति।
तदातुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः॥ 1-260-10(11243)
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन।
तपसा महता चापि दास्यामि भवतोऽप्यहम्॥ 1-260-11(11244)
आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः।
मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय॥ 1-260-12(11245)
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्।
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते॥ 1-260-13(11246)
एवं दत्त्वा वरं ताभ्यां सह देवैर्मरुत्पतिः।
हुताशनमनुज्ञाप्य जगामत्रिदिवं प्रभुः॥ 1-260-14(11247)
पावकश्च तदा दावं दग्ध्वसमृगपक्षिणम्।
अहोभिरेकविंशद्भिर्विरराग्सुतर्पितः॥ 1-260-15(11248)
जग्ध्वा मांसानि पीत्वा चदांसि रुधिराणि च।
युक्तः परमया प्रीत्या तावुत्वाच्युतार्जुनौ॥ 1-260-16(11249)
युवाभ्यां पुरुषाग्र्याभ्यां ततोऽस्मि यथासुखम्।
अनुजानामि वां वीरौ चरतंत्र वाञ्छितम्॥ 1-260-17(11250)
`गाण्डिवं च धनुर्दिव्यमक्षौ च महेषुधी।
कपिध्वजो रथश्चायं तव द महामते॥ 1-260-18(11251)
अनेन धनुषा चैव रथेनाने भारत।
विजेष्यसि रणे शत्रून्सदेवामानुषान्॥' 1-260-19(11252)
एवं तौ समनुज्ञातौ पाववेमहात्मना।
अर्जुनो वासुदेवश्च दानवश्चयस्तथा॥ 1-260-20(11253)
परिक्रम्य ततः सर्वे त्रयोऽभरतर्षभ।
रमणीये नदीकूले सहितामुपाविशंन्॥ 1-260-21(11254)
इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां आदिपर्वणि मयपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः॥ 260 ॥ ॥ समाप्तं मयदर्शनपर्वादिपर्व च॥
Mahabharata - Adi Parva - Chapter Footnotes
1-260-15 अहानि पञ्च चैकं च इति ख. पाठः॥ षष्ट्यधिकद्विशततमोऽध्यायः॥ 260 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|